भागवतपुराणम्
Dr POLA UMAMAHESWARA RAO
Asst Professor in Sanskrit
Dr V.S.K. GOVT. DEGREE COLLEGE
VISAKHAPATNAM
भागवतपुराणं यत्वैष्णवमहिमानं प्रकटीकरोति, तत् अष्टादशसु पुराणेषु अन्यतमं भवति । केचन शाक्ताः श्रीमद्भागवत स्थाने देवीभागवतं अष्टादशसु अन्यतमं इतिएस्रीमद्भागवतं अष्टादशपरिमितपुराणेषु स्थानं नार्हमिति वदन्ति । तत् सत्यं न, किमिति चेत् पुराणस्य लक्षणंए प्रत्येकतया भागवतस्य लक्षणं, अनेकपुरानेषु नैक सन्दर्भेषु स्पष्तीकृतमस्ति। तेषु लक्षनेषु एकं
‘‘ यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ।
वृत्रासुरवधोपेतं तद् भागवतमिष्यते ।।’’ म. पु प्रस्तावना
एतत् लक्षणं तावत् श्रीमद्भागवते प्रथमस्लोके निगूढरूपेण गायत्रीमन्त्रस्य अर्थविवरणं परिपूरितमभवत् । अन्यच्च वृत्रासुरवर्णनमपि श्रीमद्भागवते उपवर्नितमस्ति । एताद्र्शाः बहवः प्रामाणिकविचारः श्रीमद्भागवते प्रस्ताविताः इति कारणात् स्रीमद्भागवतमेव अष्टादशसु स्थानं लभते, न तु देवीभागवतम् ।
‘‘ पुराणानां साररूपः साक्षात् भगवतोदितः ’’ श्री.म.भा
द्वादशस्कन्धसंयुक्तः शतविच्छेदसंयुतः ।
ग्रन्थोेष्टादशसाहस्रः स्रीमद्भवताभिधः ।
भागवतपुराणं तावत् सैद्धान्तिकपक्षे अद्वैतं साधनापक्षे भक्तिं च प्रकटीकरोति । अष्टादशपुराणेषु श्रीमद्भागवतं लोके बहुविश्रुतमस्ति । भागवतं तावत् ‘‘वेदार्थपरिब्रुंह्कग्रन्थरूश् इति गरुदपुराणे उत्कतम् । शुकयोगी सर्ववेदेतिहाससारं , गृहीत्वा भागवतग्रन्थ रूपेण परीक्षते महाराजाय प्रोक्तवानिति श्रीमद्भागवते प्रथमस्कन्धे चतुर्थाध्याये द्विचत्वारिंशत् श्लोके अस्ति । श्रीमद्भागवते द्वादशस्कन्धाः , पञ्चत्रिंशदुत्तरशतत्रयं अध्यायाः अष्टादशसहस्रश्लोकाः च सन्ति ।
भागवतस्य उद्भवः- श्रीमद्भागवतस्य ‘‘ इदं भागवतं नाम यन्मे भगवतोदितम् ’’ इत्यादि वचनानुसारेण अस्य उद्भवः स्वयम् भगवतः जातः । मूलतः भगवता उक्तत्वात् , विविधरूपैश्च तेन सह संबद्धत्वात् अस्य भागवतम् इति नाम अस्ति । अस्य संप्रदानस्य परम्परा श्रीमद्भागवतस्य विभिन्नेषु स्थलेषु एवं वर्णिता अस्ति यत् सर्वप्रथमं अस्य मूलं भगवता ब्रह्मणे दत्तं , ब्रह्मणा पुनः नारदाय दत्तं , नारदेन च पुनः वेदव्यासाय श्रीकृष्णद्वैपायनाय दत्तं , वेदव्यासेन पुनः इदं स्वपुत्राय शुकाय दत्तं , शुकेन च इदं राज्ञे परीक्षिते श्रावितम् । पश्चात् च व्यासशिष्येण सूतेन इदं शौनकादिभ्यः ऋषिभ्यः श्रावितम् । परीक्षित्पर्यन्तेयं परम्परा वर्णिता अस्ति यथा…..
‘‘कस्मै येन विभासितोयमतुलः ज्ञानप्रदीपःपुरा
तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा ।
योगीन्द्रीय तदात्मनाथ भगवद्राताय कारुन्यतस्
तच्छुध्दं विमलं विशोकममृतं सत्यं परम् धीमहि ।। सं.नि
श्रीमद्भागवतानुसारेण भगवता चतुःस्लोकात्मकं भागवतं ब्रह्मणे दत्तं । पुनः उक्तया परम्परया अस्य क्रमिके विकासे जाते सति तस्य वर्तमानं रूपं जातम् । अस्यां परम्परायां वेदव्यासेन अस्य सर्वाधिकः विकासः कृतः , अतः सास्य रचयिता भवति , यथाहि …
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजाम् ।
शुकमध्यापयामास निवृत्तिनिरतं मुनिः । श्री.भा १२.१३.१९
यतः द्वितीयस्कन्धात् शुकः स्वपितुः वेदव्यासात् अधीतं भागवतं परीक्षिते अभिधातुं उपक्रमते , द्वादशस्कन्धस्य चतुर्थाध्यायस्य श्लोक पर्यन्त भागे च तत् समापयति । अतः स्पष्टमस्ति यदस्य वर्तमाने रूपे सम्पूर्णः प्रथमस्कन्धः द्वादशस्कन्धस्य च अन्तिमाः नव अध्यायाः व्यासप्रनीताः नसन्तीति । एवमेव अवशिष्टे वर्तमाने रूपेऽपि कथा श्रवनप्रसङ्गेन परीक्षिता कृताः प्रश्नाः तेषां शुकदत्तानि उत्तराणि चेत्यादिकं अन्यदपि प्रसङ्गातं च वस्तु व्यासप्रनीतं न भवितुं शक्नोति । फलतः भागवतं स्वकीये वर्तमाने पूर्णे रूपेतु व्यासप्रनीतमिति मन्तुमेव न शक्यते , अथ च सहैव इदमपि कथयितुमतीव कठिनमस्ति यदस्य कः कियान् चअंशः व्यासप्रनीतः अस्ति । अस्य वर्तमाने रूपे सम्पादनं संस्करणं वा वेदव्यासात् पश्चात् जातं , इत्यत्रतु कोऽपि सन्देहैव नास्ति । भागवतस्य वर्तमाने रूपे द्वादशस्कन्धाः , पञ्चत्रिंशदुत्तरशतत्रयं च अध्यायाः सन्ति । अत्र श्लोकाः अष्टादशसहस्र संख्याकाः , किन्तु सामान्यगणनानुसारेण तावन्तः न उपलभ्यन्ते ।
रचनायाः उद्देश्यं- श्रीमद्भागवते अस्य रचनायाः उद्देश्यं इदं वर्णितमस्ति । यत् वेदानां व्यसने महाभारतस्य च प्रणयने कृतेेपि यदा वेदव्यासस्य हृदये शान्तिः न आसीत् एतदा तेनकृ
किं वा भागवत धर्माः न प्रायेण निरूपिताः ।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ।।श्री भा १.४.३१
इति प्रकारेण विचारितंयतः तेन तस्य भागवताःधर्माः प्रायः न निरूपिताः , अतः तस्य हृदये शान्तिः नास्ति । तदैव समागतेन नारदेनापि एतत् समर्थिम् भगवच्चरितवर्णनाय च तस्मै प्रेरणा दत्ता । फलतः तेन भागवतधर्माणां निरूपनाय भगवच्चिरितानां च वर्णनाय भागवतं प्रणीतम् ।