श्रीमद्भागवतस्य माहात्म्यम्
डा.पोल उमामहेश्वर रावः
श्रीमद्भागवतं पुराणेषु उन्नत स्थानमधिकरोति I अस्य ग्रन्थस्य कर्तृत्वविचारः कालनिर्णयो वा न मे निबन्धस्य विषयः I ऐतिहासिका एव तत्र प्रमाणम् I केवलमस्य ग्रन्थस्य महत्वेषु किञ्चिन्मात्रमधिकृत्य द्वित्राः शब्दाः कथयिष्यन्ते I भागवतस्य प्रथममहत्वं दशलक्षणरूपम् I तथा हि पुराणेषु “ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च , वंशानुचरितं चेति पुराणं पञ्च लक्षणम् ” इति पञ्चविषया वर्णयितव्या वर्तन्ते I परन्तु भागवतं न केवलं पञ्चलक्षणम् , अपि तु दशलक्षणं विद्यते I तथा चोक्तं भागवते द्वितीयस्कन्धे –
तस्मा इदं भागवतं पुराणं दशलक्षणम् I २-९-४३
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः I
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः II २-१० १
अत्र परमाश्रयस्य परब्रह्मणः परमात्मनः सम्यग्ज्ञानाय सर्गप्रतिसर्गादीनां नवानां वर्णनं वर्तते , न तु तदेव मुख्यम् I उक्तं च प्रथमस्कन्धे –
“ इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ” I १-३-४०
भागवतमधिकृत्य गुरुपरम्परातः श्रूयते यदयं ग्रन्थः श्रीमद्भगवद्गीतायाः भाष्याभूतश्चकास्ति I गीतायां विचारितस्य सिद्धान्तस्य च विषयज्ञातस्य उदाहरणप्रत्युदाहरणादिना विशदीकरणं सुस्थापनं च भागवते विहितम् I अथ भागवतस्य अन्यत् किञ्चिद् वैशिष्ट्यमधुना प्रदर्श्यते I भागवते खलु ब्राह्मण – क्षत्रिय – वैश्य – शूद्राणां मन्वादिस्मृतिशास्त्रवत् वर्णनं कृतम् I परन्तु भागवते न केवलं जन्मना जातिस्वरूपनिरूपणमपि तु गीतोक्तदिशा गुणैः कर्मभिरपि I इत्थं ब्राह्मण लक्षणानि सूद्रेपिस्युः तर्हि तस्यापि ब्राह्मणत्वमेव , न तु शूद्रत्वमिति भागवतमतं वरीवर्ति I तथा चोक्तं सप्तमस्कन्धे —
“ यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् I
यदन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् II ७ – ११ – ३५
अत एव भगवता श्री चैतन्यदेवेन यवनो ब्राह्मणगुणसंपन्नो हरिदासोपि परमवैष्टवत्वेन परिगृहीतः , प्रसादितश्च I भागवतस्य अपरं वैशिष्ट्यं तावत् भूतेषु देवताबुद्धिः I यद्यपि इदं तत्वं खलु ईशोपनिषदि – ‘ यस्तु सर्वाणि भूतानीति ’ श्रुत्या , गीतायां च ‘ सर्वभूतस्थमात्मानमित्यादिस्मृत्या प्रतिपादितं तथापि भागवते सप्तमस्कन्धे –
‘ तन्मूलत्वादच्युतेज्या सर्वजीवात्म तर्पणम् II ७ – १४ – ३६
इत्यादिशास्त्रेणापि निर्गलितार्थो दत्तः I इदमेव तत्त्वं श्रीरामकृष्णसेवाश्रमेपि ‘ यत्र यत्र जीवः तत्र तत्र शिवः ’ इति शास्त्रेण रूपायितं दृश्यते I अपि च सर्गप्राणिनां समत्वस्य खलु प्रतिपादनं भागवते कृतम् I तथा हि ‘ केवलाघो भवति केवलादो ’ इति श्रुत्या ऋग्वेदे (१०- ११७ – ६ ) स्वार्थैकनिष्टस्य निन्दा कृता I गीतायां च तृतीयाध्याये –
‘ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः I
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् I ३ – १३
इत्यादिस्मृत्या न केवलं स्वार्थपराणां प्रशंसापि भङ्ग्या विहिता I भागवते तु सप्तमस्कन्धे –
‘ यावद् भ्रियेत जठरं तावत्स्वत्वं हि देहिनाम् I
अधिकं योभिमन्येत स स्तेनो दण्डमर्हति II ७ – १४ – ९
इति शास्त्रेण केवलादिनो न केवलं निन्दा विहिता , अपि तु तस्य चौरत्वं दण्डत्वं च प्रतिपादितम् I अथ अपरं महत्वं भागवतस्य भगवत्प्राप्तेरुपायवर्णनं इतिहासादिभिः समर्थनं च I भागवते नवलक्षणा भक्तिर्वर्णिता , सा च –
‘ श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् I
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ’II ७-५२३
अथैतया नवलक्षणया भक्त्या भागवतप्राप्तिर्भवतीति च प्रतिपादितं तत्र I परन्तु विद्विषः शिशुपालस्य , इन्द्रप्रस्थे राजसूययज्ञे कृष्णेन विहतस्य तद्देहोत्थितं ज्योतिः कथं वा तस्य भगवतप्राप्तिर्जातेति प्रश्नस्य सुन्दरं समाधानं भागवते कृतम् I तथाहि – भगवतप्राप्तये केनाप्युपायेन मनः खलु भगवन्मयं कर्तव्यमस्ति I तदपि भागवतमते वैरानुबन्धेन यथा सुकरं न तथा अन्येन केनाप्युपायेन I उक्तं भागवते सप्तमस्कन्धे —
“ यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् I
न तथा भक्तियोगेन इति मे निश्चिता मतिः” II ७ – १ -२६
अस्य मतस्य समर्थनाय एकं लौकिकमुदाहरणमपि दत्तम् I तद्दि
कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् I
संरम्भभययोगेन विन्दते तत्स्वरूपताम् II ७ -१ -२७
एवं कृष्णे भगवति मायामनुज ईश्वरे I
वैरेण पूतपाप्मानस्तमापुरनु चिन्तया II ७ -१ -२७
अथास्मिन्विषये काचित् शङ्का सम्जायते I तथा हि – यदि भगवन्निन्दया मुक्तिः संभवति , तर्हि वेनस्य कथं न मुक्तिः सञ्जाता , कथं वा स द्विजैस्तमसि पातितः I अस्य सन्देहस्य उत्तरमेतदेव यत् वेनस्य भगवन्निन्दा न तन्मयतामापादयत् I अतो न तस्य भगवत्प्राप्तिः समभवत् I श्रीमधुसूदनसरस्वातीपादेन तु भक्तिरसायने भगवद्भावनया द्रुतस्य चित्तस्य भगवद्रूपता एव भक्तिरिति सिद्धान्तितम् I अत एव तन्मते तन्मयतासंपादकानां द्वेषादीनामपि भक्तिपदावाच्यतैवास्ति I उक्तं च तेन ––
द्रुतस्य भगवद्धर्माद् धारावाहिकतां गता I
सर्वशे मनसो वृत्तिर्भक्तिरित्यभिधीयते II १-३
अथान्यद् वैशिष्ट्यं तु भागवतस्य नाममाहात्म्यदर्शनम् I अस्य नामोपासनस्य विधानम् I
अथ भागवते तु अस्यैव नामस्मरणविधानस्य भाष्यं न केवलं वाक्येन कृतम् , अपितु उदाहरणोपन्यासेन सुस्थापितम् I तत्तु अजामिलकथा I अयं हि अजामिलो मृत्युकाले उपस्थिते , नारायणनामधेयस्य पुत्रस्य नामोच्चाराण प्रभावेन वैकुण्ठमवापI
_____________________________________________________________
Dr POLA UMAMAHESWARA RAO , LECTURER IN SANSKRIT ,
Dr V S KRISHNA GOVT. DEGREE COLLEGE(A) MADDILAPALEM,
VISAKHAPATNAM 530013 Ph No – 7396689471