नारी शिक्षायाः महत्त्वम्
IMPORTANCE OF WOMEN EDUCATION
Dr. K.V.R.B. VARA LAKSHMI
HOD OF SANSKRIT
SRI YN COLLEGE, NARSAPUR
Mobile :9393392619
[email protected]
ABSTRACT
शिक्षा शब्दस्य अभ्यासः विशेषव्यक्तिः इच्छाविशेषः तथा सहनशक्तेरिच्छा अर्थात् सुखदुःखप्रियाप्रियात्तर्द्वन्द्वेषु विचारपूर्वकं सहनशक्तेः प्रदर्शनम् इत्यर्थः लभ्यते। मानवाः विद्यया विनयसम्पन्नः, युक्तायुक्तविचक्षणाः, सहनस्वभावशीलः भवेयुः। शिक्षा नवसमाजनिर्माणस्य मानवव्यक्तित्वस्य हेतुर्भवति।
समाजं नाम विविधव्यक्तीनां समूह एव। समाजे स्त्रीपुरुषाणां व्यक्तित्वविकासहेतुः शिक्षा एव भवति। सुशिक्षित स्रीपुरुषाः समाजश्रेयस्काराः भवन्ति। अत एव भर्तृहरि महाकविः विद्याविहीनः पशुतुल्यः इत्यवर्णयत्।
सहनाववतु। सहनौ भुनक्तु। सहवीर्यं करवावहै। तेजस्वीनावधीतमस्तु। मा विद्विषावहै।“ इति विद्यायाः प्रथम शिक्षणम्। अनया शिक्षया स्वार्थपरित्यागिनः, युक्तायुक्त विचक्षणतत्पराः, शान्तिकामुकाः आत्मस्थैर्यसमन्विताः भवेयुः। विद्यार्थिन परस्परद्वेषभावं त्यक्त्वा स्नेहेन वर्तितव्यम्। जीवने आगामि समस्यानां सानुकूलेन वर्तितव्यम्। विज्ञानस्य परमावधिः प्रशान्तजीवनं एव भवति। उच्चशिक्षया सर्वे जनाः सुखिनः जीवन्तु इति आशंसामहे।
नारी शिक्षायाः महत्त्वम्
IMPORTANCE OF WOMEN EDUCATION
“अपूर्वः कोऽपि कोशोऽयं सरस्वत्याः विराजते व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्” इति श्लेके विद्यायाः महत्त्वं अत्यन्तमनोहरतया वर्णितम्। विद्याधिदेवतायाः सरस्वत्याः अपूर्वः धनागारः अस्ति। सः धनागारः व्ययी कृते वृद्धिं आप्नोति सञ्चयेन ह्रासं प्राप्नोति। लोके धनं व्ययेन ह्रासं प्राप्नोति सञ्चयेन वृद्धिं च।
प्राचीनभारते वेदानां वेदाङ्गानां चाध्ययनं मुख्यरूपेण प्रचलितमासीत्। तथापि नारीणां अध्ययने स्वातन्त्र्यं दत्तमिति वर्णितम्। मैकडोनल् महोदयानां मतेन विश्वावरा न केवलमेका नारी-ऋषिः अपि तु एका ऋत्विक्त्वेन सा खलु बहूनां यज्ञानामाध्यानमकरोत्। इति ज्ञायते।
शिक्षा शब्दस्य अभ्यासः विशेषव्यक्तिः इच्छाविशेषः तथा सहनशक्तेरिच्छा अर्थात् सुखदुःखप्रियाप्रियात्तर्द्वन्द्वेषु विचारपूर्वकं सहनशक्तेः प्रदर्शनम् इत्यर्थः लभ्यते। मानवाः विद्यया विनयसम्पन्नः, युक्तायुक्तविचक्षणाः, सहनस्वभावशीलः भवेयुः। शिक्षा नवसमाजनिर्माणस्य मानवव्यक्तित्वस्य हेतुर्भवति।
समाजं नाम विविधव्यक्तीनां समूह एव। समाजे स्त्रीपुरुषाणां व्यक्तित्वविकासहेतुः शिक्षा एव भवति। सुशिक्षित स्रीपुरुषाः समाजश्रेयस्काराः भवन्ति। अत एव भर्तृहरि महाकविः विद्याविहीनः पशुतुल्यः इत्यवर्णयत्।
“शास्त्रण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान्पुरुष स एव सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम्” इति सुभाषित रत्नभाण्डागारम्। उच्चशिक्षा स्त्रीणां पुरुषाणामपि आवश्यकी भवति। समाजपुरोगमनार्थं, नवसमाजनिर्माणार्थं, समाजशान्तिस्थापनार्थं उच्चशिक्षा आवश्यकी। आधुनिककाले पुत्रवत् पित्रीणां च शिक्षा विषये रुचिः अति। अत एव “कन्याप्येवं लालनीया शिक्षणीया इति कथितम्। नारीणां शिक्षा समाजहितकारी यथा माता अशिक्षिता भवति तस्याः सन्ततिरपि अविद्याग्रस्ताः भवन्ति।
उच्चशिक्षणया विवेकयुक्ताः भवन्ति,बुद्धेः शक्तेः कार्यक्षमतायाः च वृद्धिर्भवति। पुरुषाणां तथा स्त्रीणामपि शिक्षा श्रेयस्करी भाति। मानवसमाजपुरोगमनार्थं विद्या आवश्यकी भवति। तत्तकालानुसारं विद्यायां अपि परिवर्तनं अस्ति। विद्यायाः प्रधान उद्देश्यं किमिति विचार्यमाणे न केवलं विषयप्रदानं इति नित्यजिवने आगमिसमस्यानां सानुकूल समाधानार्थं परिष्कारार्थं च उपकारोतीति ज्ञायते। प्राचीनकाले उपनिषदः “विद्ययामृतमश्नुते” इति वाक्येन विद्या मानवस्य शारीरक मानसिक आध्यात्मिक शक्तीनां जागृतकारिणीति अवगम्यते। कामक्रोधादि षड्रिपून् निर्जित्य अमृतत्त्वप्राप्तिः विद्यायाः लक्ष्यं भवति। इन्द्रियसंयमनं विद्याभ्याससमये प्रथमं नियम्। तेन युवकाः मनोनिग्रहं प्राप्तुं शक्यते। उच्चशिक्षा समन्विताः स्त्री पुरुषाः धर्मनिष्ठान्विताः भवेयुः। तथैव उच्चशिक्षायाः प्रधानोद्देश्यं नैतिकविकासं तथा चारित्रनिर्माणं च। यथा विद्यार्थिनः धर्मनिष्ठातत्पराः भवन्ति तथा नवसमाजनिर्माणे उपाययुक्ताः भवन्ति। राष्ट्रसंस्कृति संरक्षकाः, शान्तिकामुकाः भूत्वा चरन्ति।
अतः अथर्ववेदे विद्यार्थिना व्यक्तित्वविकासमुद्दिश्य एवं अकथयत्। यत् समुचित शिक्षया योद्धा युद्धभूमौ कौशलं प्रदर्शयति। तथा राजा शासनकार्ये सफलो भवति। सम्यग्रूपेण शिक्षितः स्नातकः राज्ञः सम्माननीयः अमन्यत इति। अनेन विद्वान् सर्वत्र पूज्यते इत्युक्तिः सार्थकी अभूत्।
अद्यतन काले ये विद्यार्थिनः सन्ति ते एव आगामि माता पिता, सति, पति, नायकी, नायक रूपेण वर्तन्ते। उत्तमं स्वार्जितं वित्तं इति नीत्या अर्थोपार्जनं कृत्वा मातापुतृ सेवा, अतिथि सेवा, परिवारस्य रक्षणं च करणियम्।
अत एव तैत्तरीयोपनिषदि शिष्यानुशासने “सत्यं वद, धर्मं चर, मातृ देवो भव, पितृ देवो भव, आचार्य देवो भव” इत्युपदिदेश। अनेन उच्चशिक्षया समाजिक श्रेयोपयोगमिति अवगम्यते। उच्चशिक्षायाः राष्ट्रियपरम्पराय संस्कृतेः संरक्षणं आवश्यकम्। धर्मशास्त्रणां अध्ययनेन स्थिरबुद्धिः सम्भवति। ऋग्वेदमन्त्रेषु माता स्वपुत्राय बुद्धिवस्त्रं आच्छादयतीति कथयत्। सर्वप्राणिनां माता प्रथमगुरुः भवति। बालकस्य बुद्धिवर्धनार्थं मातृ प्राधान्यं ज्ञायते।
आधुनिककाले उच्च शिक्षा विषये विविधपरिणामाह् सञ्जाताः। संगणकमाध्यमेन शिक्षां अभ्यासं कुर्वन्ति विद्यार्थिनः। ते कक्ष्यायां प्रथमस्थानप्राप्त्यर्थं यतन्ते। एकः वा द्वौ अङ्कौ ह्रासं प्राप्य आत्महत्यां कर्तुं यतन्ते। ते शिक्षया किं शिक्षितम्। “स्पर्धया वर्धते विद्या” इति श्रूयते। सर्वेषां समानावकाशाः शिक्षाविषये लभ्यन्ते।
“सहनाववतु। सहनौ भुनक्तु। सहवीर्यं करवावहै। तेजस्वीनावधीतमस्तु। मा विद्विषावहै।” इति विद्यायाः प्रथम शिक्षणम्। अनया शिक्षया स्वार्थपरित्यागिनः, युक्तायुक्त विचक्षणतत्पराः, शान्तिकामुकाः आत्मस्थैर्यसमन्विताः भवेयुः। विद्यार्थिन परस्परद्वेषभावं त्यक्त्वा स्नेहेन वर्तितव्यम्। जीवने आगामि समस्यानां सानुकूलेन वर्तितव्यम्। विज्ञानस्य परमावधिः प्रशान्तजीवनं एव भवति। उच्चशिक्षया सर्वे जनाः सुखिनः जीवन्तु इति आशंसामहे।
विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वात् धनमाप्नोति धनाद्धर्मं ततस्सुखम्॥ इति
एतदेव उच्चशिक्षायाः परमावधिः भवति।
* * * * *
उपयुक्त ग्रन्थसूची :
1. सुभाषितरत्नभागारः-चौखाम्बा संस्कृत प्रतिष्ठान्, जवहर् नगर्, दिल्ली-१९९१
2. मनुस्मॄतिः-भारतीयविद्याभवन्, मुम्बई-१९७२
3. श्रीमद्भागवतपुराणम्-गीताप्रेस्, गोरखपूर्-कोलकत्ता-२०००
4. भर्तृहरि सुभाषितानि-जि.वि.एच् पब्लिकेषन्स्, कस्सावारि वीधि, विजयवाडा-१९९०
5. उत्तररामचरितम्-चौखाम्बा , कृष्णदास् अकाडमी-वाराणसी-२००५
6. उपनिषत्संग्रहः-मोतीलाल् बनारसी दास् पब्लिकेषन्स्, दिल्ली-१९८०
7. नीतिकल्पलता-चौखाम्बा कृष्णदास् अकाडमी-वाराणसी-२०१३
उद्दरणानि :
. सुभाषितरत्नभागारः, विद्याप्रशंसा-श्लो-१-पृ.-२९
. प्राचीनभारते नारी शिक्षा अ-४-पृ.-१७
“She was not only a Rsi, Composer of Rks, but also a priestess discharging the priestly office, worshiping gods at down with hyms and oblation”.
.संस्कृतरत्नाकरः –शिक्षाङ्कः
. भर्तृहरिसुभाषितानि-विद्वत्पद्धतिः
. सुभाषितरत्नभाण्डागारः-श्लो-२२, पृ.-४०
. शिष्यानुशासनम्-छान्दोग्योपनिषत्