DINESH BABU KANDUKURI
RESEARCH SCHOLAR
DEPARTMENT OF SANSKRIT
ANDHRA UNIVERSITY
MOBILE NUMBER: 9849745820
E-MAIL : kandukuridinesh@gmail-com
उपोद्घातः-
सकलानां संस्कृतीनां सर्वेषां संप्रदायानां च प्रभावस्थानं इयं संस्कृतभाषेति सर्वेऽपि प्राच्यपाश्चात्यविदुषः कीर्तयन्ति ।‘‘संस्कृतम् नाम दैवीवाक् अन्वाख्याता महर्षिभिः‘‘ इति अभियुक्तवचनात् अमृता भाषा देवभाषेति च जेगीयते चेयम् । सुबोधा, रमणीया , मधुरा चेयं सर्वविधानां भाषाविज्ञानानां मूलभूतेति भाषाशास्त्रज्ञाः वदन्ति । अतएव संस्कृतभाषायां साहित्यविषयं उक्त्वा तस्मिन् व्यक्तित्त्वविकासमधिकृत्य कथं प्रस्तुतवन्तः इति परिशीलयामः ।
प्राचीनाः लाक्षणिकाः वाङ्मयं वेद-पुराण-काव्यभेदेन विभज्य तेषां स्वरूपं स्वभावं च विवृतवन्तः । वेदः शब्दप्रधानः प्रभुसम्मितश्च । प्रभुशासनमिव वेदशासनमप्यनुल्लंघ्यम्। पुराणानि तु अर्थप्रधानानि सुहृत्सम्मितानि च । तानि च वेदपरमार्थानेव सुबोधकतया कथारूपेण उपवर्ण्य मित्रमिव कर्तव्याकर्तव्योपदेशं कुर्वन्ति । काव्यानि उक्तिप्रधानानि कान्तासम्मितानि च भवन्ति । यद्यपि वेदपुराणकाव्येभ्यो जायमानः कर्तव्योपदेशः समानः तथापि उपदेशशैलीभेदात् ते भिन्नाः । सरसोपदेशस्तु काव्ये विशेषः ।
‘‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयंप्रहरिष्यति ‘‘।। इति प्रसिद्धमेव ।
संस्कृतसाहित्यं न केवलं आर्याणामेव अपितु मानवजातेरेवामूल्यः अक्षमश्च सांस्कृतिक निधिः व्यक्तित्वविकास जनकः । अस्मिन् मानवजीवनस्य चत्वारो पुरुषार्था धर्मार्थकाममोक्षाः साङ्गोपाङ्गं विवेचिताः सन्ति । अस्य किं वा वैदिक-मुतवा लौकिकमपि साहित्यं समग्रमेव मानवमूल्यमात्मसात्कृत्य व्याख्याति ।
कवेः कर्म काव्यम् । कवि शब्दः प्रप्रथमतया वेदेषु परमात्मपरेण प्रयुक्तः । तदनन्तरं कवि शब्दः परमात्म साक्षात्कारं ऋषयः उपयुक्तः । वेदमन्त्राणां दार्शनिक महर्षयः कवयः । इतिहासानां रामायण महाभारतानां लेखकाः वाल्मीकि, व्यासादि ऋषयः एव । ऐते महाकाव्यानि लिखितवन्तः ।
काव्यस्य आनन्दः प्रधानप्रयोजनम् । धर्मार्थकाममोक्ष प्रसादः काव्यं तस्मात् आन्ध्रशब्दचिन्तामणि कर्ता ‘‘विश्वश्रेयः काव्यम्‘‘ इत्यवदत् ।
काव्यप्रकाशः, रसगङ्गाधरः, साहित्यदर्पणम् , ध्वन्यालोकः, दशरूपकम् इत्यादयः लक्षणग्रन्थाः । रघुवंशम्, कुमारसम्भवम् , भट्टिकाव्यमित्यादि महाकाव्यानि सन्ति । व्याकरणशास्त्रेषु तत्तद्विषयाणामेव प्राधान्यं भवति । साहित्ये तु व्याकरणं, छन्दः, ज्यौतिषम् दर्शनानि , राजनीतिः , पुराणेतिहासः सर्वेऽपि विषयाः विलसन्ति । एतस्मात् कारणात् सर्वेषां विषयाणां सहितत्वात् साहित्यम् इत्यपि वक्तुं शक्यते ।
इदमेव साहित्यम् एकमात्रं मानवसभ्यताया संस्कृतेः स्वाधीनतादीनां विकासस्य सरलं साधनम् । अनेन साहित्येन राष्ट्रे समाजे जातौ व्यक्तौ च नवीनां जीवनं विराजमानं विलसति अस्मिन्नेव समाजस्य प्रान्तस्य देशस्य वा उत्कर्षस्य वा सामाजीकरोति नीतीनां जातीयविचाराणां व्यवहाराणाञ्च दर्शनं जायेत् । एतस्मादेव कारणात् जातेः समैक्यता देशस्य दर्पणं सहितम् इत्यभिधीयते विद्वद्भिः ।
साहित्यम् नाम शास्त्रम् । शास्त्रम् नाम शास्ति प्रशासनं करोति इति शास्त्रम् , अर्थात् यत्शासनं कर्तृ साहित्यशास्त्रस्यापि शासनकर्तृत्वात् शास्त्रमिति वक्तुं शक्यते । साहित्यम् न केवलं रसब्रह्मप्रतिपादिकं प्रत्युत अप्रतिभात्वेन अनन्यलभ्येन हृदयस्य औदार्येणनैसर्गिकेण कारुण्येन सर्वजनानामभिलषितेन शब्दमाधुर्येण ललनानां लावण्यभारेण सौन्दर्यसारेण च सर्वेषामुपरि विराजते ।
एतादृश साहित्यशास्त्रे सन्ति बहूनि काव्यानि तदादौ दृश्यं, श्रव्यं चेति मुख्यतया काव्यं द्विविधं भवति । तत्र श्रव्यकाव्यं यथा- गद्यकाव्यानि , पद्यकाव्यानि , चम्पूकाव्यानि , खण्डकाव्यानि , गीतिकाव्यानि इत्यादीनि । एतदतिरिच्य दृश्यकाव्यानि च सत्सु बहुषु काव्येषु श्रव्यकाव्यादीनां महती कीर्तिः वरीवर्ति । तत्रापि पद्यकाव्यानां इतोऽपि वैशिष्ट्यं वर्तते । एतादृश काव्यप्रपञ्चे व्यक्तित्वविकासकारणानि बहूनि सन्ति । तेषु भारतीय-आलङ्कारिकेषु प्रतिपादित विषयानि पश्यन्ति चेत् एतद् विषयं स्पष्टं भवति । केचन आलङ्कारिकवचनानि शास्त्रंबोधयति ,स्वाभिप्रायं प्रकटयति , परिशीलनात्मकदृष्टिं प्रतिपादयति , व्यक्तित्वविकासमपि वृद्धिं प्राप्नोति ।
भारतीय आलङ्कारिकेषु केचन शब्दं काव्यं इति उच्यते । अन्यः द्वौ शब्दार्थौ काव्यं इति कथ्यते ।
अत्र भरतः- ‘‘इतिवृत्तन्तु काव्यस्य शरीरं परिकीर्तितम्‘‘ ।
दण्डिः- ‘‘इष्टार्थव्यवच्छिन्ना पदावली काव्यम्‘‘।
रमणीयार्थ सहितयुक्त पदानां समूहं काव्यं इति एतस्य अर्थः।
भामहः- ‘‘शब्दार्थौ सहितौ काव्यम‘‘। सहितशब्दार्थाः एव काव्यम् इत्यर्थः ।
भोजः- ‘‘निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसात्मकं कविः कुर्वन् कीर्ति प्रीतिञ्च विन्दति ।। इति ।‘‘
रुद्रटः- ‘‘शब्दार्थौ काव्यम्‘‘।
वामनः- ‘‘काव्यशब्दोऽय गुणालङ्कारः‘‘।
वाग्भटः- ‘‘साधुशब्दार्थसन्दर्भं गुणालङ्कारभूषितं ।
स्पुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये‘‘।।
मम्मटः- ‘‘तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनःक्वापि‘‘।
विश्वनाथः- ‘‘वाक्यं रसात्मकं काव्यम् ‘‘।
जगन्नाथः- ‘‘रमणीयार्थ प्रतिपादकशब्दःकाव्यम् ‘‘।
एवमेव राजशेखरः , आनन्दवर्धनः, इत्यादयाः आलङ्कारिकाः तेषां अभिप्रायः उच्यन्ते ।
सृष्टौ मानवस्य विशिष्टतायाः कारणं इतर जीवरहितज्ञानं तस्य सिध्यति । एतादृश ज्ञानस्य सत्वात् मानवाः कवयः इति वक्तुं न शक्यते । सर्वे कवयः महाकवयः न । सहृदय पाठकाः पुस्तक पठन द्वारा पाण्डित्यं संपादयति किन्तु कवित्वं लिखितुं न शक्नुवन्ति । महापण्डिताः अपि कवयः कवित्वरचना प्रतिभा जन्मान्तरतः एव सिध्यति इति केषांचन अभिप्रायः । कविता कौशल सिध्यर्थं कश्चित् हेतुः अस्ति । एतदेव भारतीयालङ्कारिकैः काव्यहेतुः इति साधना सामग्री इति उच्यते ।
संगीतस्य आपातात् एव आनन्दः जायते । किन्तु स आनन्दः तात्कालिकाः । साहित्ये तु स आनन्दः न तात्कालिकः । यदा यदा तत्तद्विषया आलोच्यन्ते तदा तदा आनन्दं अनुभूयते एव । अत एव आलोचनामृतमिति कथितम् । अपि च काव्यस्य केवलम् आनन्द एव न प्रयोजनम् । उपदेशादयोऽपि काव्यस्य प्रयोजनानि विद्यन्ते । अतः विद्या , शास्त्रं च भवति ।
उपसंहारः-
लोके सत्यं वद , धर्मं चर इति कथनादपि हरिश्चन्द्र उपाख्यानरूपेण प्रोक्तः सत्यं धर्मविषय जनेषु तद्विषये प्रीतिं जनयति , आचरणाय च प्रेरको भवति । सैव हरिश्चन्द्र विषयः प्रबन्ध निबन्ध रूपेण यदि उच्यते तर्हि लोकस्य परमादरणीया भवती यत्र निस्संशयः । एवं काव्यमार्गस्य आविर्भावे कारणं श्रुतिस्मृतीतिहासादीनां विषयाणां व्यक्तित्वविकासः प्रभावात्मकतया च प्रतिपादनेमेवेति ज्ञायते । सहितयोः भावः साहित्यम् इति ।
उपर्युक्त ग्रन्थसूची-
1 ‘‘पञ्चमहाकाव्येषु ललितकलाविज्ञानम्‘‘। परिशोधना ग्रन्थः- डा. एम् . वाणीकुमारी.,
- संस्कृतसाहित्येतिहासः । 3. काव्यप्रकाशः। 4. साहित्यदर्पणम् ।
- रामायणम् । 6. महाभारतम् । 7. रघुवंशम् । 8. कुमारसम्भवम् ।
……… धन्यवादाः ………
इति शम्